प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णामप त्वचम्
सुवितस्य मनामहेऽति सेतुं दुराव्यम् । साह्वांसो दस्युमव्रतम्
शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः । चरन्ति विद्युतो दिवि
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् । अश्वावद्वाजवत्सुतः
स पवस्व विचर्षण आ मही रोदसी पृण । उषाः सूर्यो न रश्मिभिः
परि णः शर्मयन्त्या धारया सोम विश्वतः । सरा रसेव विष्टपम्
जनयन्रोचना दिवो जनयन्नप्सु सूर्यम् । वसानो गा अपो हरिः
एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । धारया पवते सुतः
वावृधानाय तूर्वये पवन्ते वाजसातये । सोमाः सहस्रपाजसः
दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते । क्रन्दन्देवाँ अजीजनत्
अभि विश्वानि वार्याभि देवाँ ऋतावृधः । सोमः पुनानो अर्षति
गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः । पवस्व बृहतीरिषः
यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः । तं गीर्भिर्वासयामसि
तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा । इन्दुमिन्द्राय पीतये
पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः । विप्रस्य मेध्यातिथेः
पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् । इन्दो सहस्रवर्चसम्
इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ । यदक्षारति देवयुः
पवस्व वाजसातये विप्रस्य गृणतो वृधे । सोम रास्व सुवीर्यम्
प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि । अभि देवाँ अयास्यः
मती जुष्टो धिया हितः सोमो हिन्वे परावति । विप्रस्य धारया कविः
अयं देवेषु जागृविः सुत एति पवित्र आ । सोमो याति विचर्षणिः
स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् । बर्हिष्माँ आ विवासति
स नो भगाय वायवे विप्रवीरः सदावृधः । सोमो देवेष्वा यमत्
स नो अद्य वसुत्तये क्रतुविद्गातुवित्तमः । वाजं जेषि श्रवो बृहत्
स पवस्व मदाय कं नृचक्षा देववीतये । इन्दविन्द्राय पीतये
स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे । देवान्सखिभ्य आ वरम्
उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् । वि नो राये दुरो वृधि
अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि । इन्दुर्देवेषु पत्यते
समी सखायो अस्वरन्वने क्रीळन्तमत्यविम् । इन्दुं नावा अनूषत
तया पवस्व धारया यया पीतो विचक्षसे । इन्दो स्तोत्रे सुवीर्यम्