विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः
नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ
तत्तु ते दंसो यदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि
उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै
त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दृशीके
वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः
आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म
गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम्
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः
स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्ताँश्च विद्वान्
वर्धान्यं पूर्वीः क्षपो विरूपा स्थातुश्च रथमृतप्रवीतम्
अराधि होता स्वर्निषत्तः कृण्वन्विश्वान्यपांसि सत्या
गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः
वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त
साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु
उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः । स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं न गावः
वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण । चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः
दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः । अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः
मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् । आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय
महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् । सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात्
स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् । वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि
अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः । न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान्
आ यदिषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौरभीके । अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च
मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे । राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा
मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् । नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि
नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि । अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा
अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः । श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चार्वग्नेः
तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् । नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः
आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः । विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम्