एष देवो अमर्त्यः पर्णवीरिव दीयति । अभि द्रोणान्यासदम्
एष देवो विपा कृतोऽति ह्वरांसि धावति । पवमानो अदाभ्यः
एष देवो विपन्युभिः पवमान ऋतायुभिः । हरिर्वाजाय मृज्यते
एष विश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति
एष देवो रथर्यति पवमानो दशस्यति । आविष्कृणोति वग्वनुम्
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । दधद्रत्नानि दाशुषे
एष दिवं वि धावति तिरो रजांसि धारया । पवमानः कनिक्रदत्
एष दिवं व्यासरत्तिरो रजांस्यस्पृतः । पवमानः स्वध्वरः
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । हरिः पवित्रे अर्षति
एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः । धारया पवते सुतः
सना च सोम जेषि च पवमान महि श्रवः । अथा नो वस्यसस्कृधि
सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा । अथा नो वस्यसस्कृधि
सना दक्षमुत क्रतुमप सोम मृधो जहि । अथा नो वस्यसस्कृधि
पवीतारः पुनीतन सोममिन्द्राय पातवे । अथा नो वस्यसस्कृधि
त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः । अथा नो वस्यसस्कृधि
तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् । अथा नो वस्यसस्कृधि
अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् । अथा नो वस्यसस्कृधि
अभ्यर्षानपच्युतो रयिं समत्सु सासहिः । अथा नो वस्यसस्कृधि
त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । अथा नो वस्यसस्कृधि
रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । अथा नो वस्यसस्कृधि
समिद्धो विश्वतस्पतिः पवमानो वि राजति । प्रीणन्वृषा कनिक्रदत्
तनूनपात्पवमानः शृङ्गे शिशानो अर्षति । अन्तरिक्षेण रारजत्
ईळेन्यः पवमानो रयिर्वि राजति द्युमान् । मधोर्धाराभिरोजसा
बर्हिः प्राचीनमोजसा पवमान स्तृणन्हरिः । देवेषु देव ईयते
उदातैर्जिहते बृहद्द्वारो देवीर्हिरण्ययीः । पवमानेन सुष्टुताः
सुशिल्पे बृहती मही पवमानो वृषण्यति । नक्तोषासा न दर्शते
उभा देवा नृचक्षसा होतारा दैव्या हुवे । पवमान इन्द्रो वृषा
भारती पवमानस्य सरस्वतीळा मही । इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः
त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे । इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः
वनस्पतिं पवमान मध्वा समङ्ग्धि धारया । सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम्