पवस्व देववीरति पवित्रं सोम रंह्या । इन्द्रमिन्दो वृषा विश
आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । आ योनिं धर्णसिः सदः
अधुक्षत प्रियं मधु धारा सुतस्य वेधसः । अपो वसिष्ट सुक्रतुः
महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः । यद्गोभिर्वासयिष्यसे
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सं सूर्येण रोचते
गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भसे
तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे । तव प्रशस्तयो महीः
अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया । पर्जन्यो वृष्टिमाँ इव
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत । आत्मा यज्ञस्य पूर्व्यः
एष देवो अमर्त्यः पर्णवीरिव दीयति । अभि द्रोणान्यासदम्
एष देवो विपा कृतोऽति ह्वरांसि धावति । पवमानो अदाभ्यः
एष देवो विपन्युभिः पवमान ऋतायुभिः । हरिर्वाजाय मृज्यते
एष विश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति
एष देवो रथर्यति पवमानो दशस्यति । आविष्कृणोति वग्वनुम्
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । दधद्रत्नानि दाशुषे
एष दिवं वि धावति तिरो रजांसि धारया । पवमानः कनिक्रदत्
एष दिवं व्यासरत्तिरो रजांस्यस्पृतः । पवमानः स्वध्वरः
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । हरिः पवित्रे अर्षति
एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः । धारया पवते सुतः
सना च सोम जेषि च पवमान महि श्रवः । अथा नो वस्यसस्कृधि
सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा । अथा नो वस्यसस्कृधि
सना दक्षमुत क्रतुमप सोम मृधो जहि । अथा नो वस्यसस्कृधि
पवीतारः पुनीतन सोममिन्द्राय पातवे । अथा नो वस्यसस्कृधि
त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः । अथा नो वस्यसस्कृधि
तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् । अथा नो वस्यसस्कृधि
अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् । अथा नो वस्यसस्कृधि
अभ्यर्षानपच्युतो रयिं समत्सु सासहिः । अथा नो वस्यसस्कृधि
त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । अथा नो वस्यसस्कृधि
रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । अथा नो वस्यसस्कृधि