प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः
य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य
वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै
वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः
श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत्
परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा
आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः
भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः
ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः
यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वान्रयिं दयस्व
होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम्
इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः
पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः
वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः
शुक्रः शुशुक्वाँ उषो न जारः पप्रा समीची दिवो न ज्योतिः
परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन्
वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम्
जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे
पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत्
विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः
नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ
तत्तु ते दंसो यदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि
उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै
त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दृशीके
वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः
आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म
गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम्
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः
स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः