स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या । इन्द्रा॑य॒ पात॑वे सु॒तः
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम्! द्रुणा॑ सधस्थमासदत्
वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः । पर्षि राधो मघोनाम्
अभ्यर्ष महानां देवानां वीतिमन्धसा । अभि वाजमुत श्रवः
त्वामच्छा चरामसि तदिदर्थं दिवेदिवे । इन्दो त्वे न आशसः
पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता । वारेण शश्वता तना
तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश । स्वसारः पार्ये दिवि
तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम् । त्रिधातु वारणं मधु
अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम् । सोममिन्द्राय पातवे
अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते । शूरो मघा च मंहते
पवस्व देववीरति पवित्रं सोम रंह्या । इन्द्रमिन्दो वृषा विश
आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । आ योनिं धर्णसिः सदः
अधुक्षत प्रियं मधु धारा सुतस्य वेधसः । अपो वसिष्ट सुक्रतुः
महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः । यद्गोभिर्वासयिष्यसे
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सं सूर्येण रोचते
गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भसे
तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे । तव प्रशस्तयो महीः
अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया । पर्जन्यो वृष्टिमाँ इव
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत । आत्मा यज्ञस्य पूर्व्यः
एष देवो अमर्त्यः पर्णवीरिव दीयति । अभि द्रोणान्यासदम्
एष देवो विपा कृतोऽति ह्वरांसि धावति । पवमानो अदाभ्यः
एष देवो विपन्युभिः पवमान ऋतायुभिः । हरिर्वाजाय मृज्यते
एष विश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति
एष देवो रथर्यति पवमानो दशस्यति । आविष्कृणोति वग्वनुम्
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । दधद्रत्नानि दाशुषे
एष दिवं वि धावति तिरो रजांसि धारया । पवमानः कनिक्रदत्
एष दिवं व्यासरत्तिरो रजांस्यस्पृतः । पवमानः स्वध्वरः
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । हरिः पवित्रे अर्षति
एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः । धारया पवते सुतः