अत्यो नाज्मन्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते
जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वनान्यत्ति
यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः
श्वसित्यप्सु हंसो न सीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत्
सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः
रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः
तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा
दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम्
ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति
दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै
चित्रो यदभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु
सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका
यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम्
तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम्
सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः स्वर्दृशीके
वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम्
क्षेमो न साधुः क्रतुर्न भद्रो भुवत्स्वाधीर्होता हव्यवाट्
हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन्
विदन्तीमत्र नरो धियंधा हृदा यत्तष्टान्मन्त्राँ अशंसन्
अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः
प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः
य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य
वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै
वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः
श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत्
परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा
आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः
भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः
ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः