अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः । स प्र ममन्दत्त्वाया शतक्रतो प्राचामन्यो अहंसन
उग्रबाहुर्म्रक्षकृत्वा पुरंदरो यदि मे शृणवद्धवम् । वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे
न पापासो मनामहे नारायासो न जळ्हवः । यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै
उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम् । वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत्
यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि
त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे
इन्द्र स्पळुत वृत्रहा परस्पा नो वरेण्यः । स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः
त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः । आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः
अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः । विश्वा च नो जरितॄन्सत्पते अहा दिवा नक्तं च रक्षिषः
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो वीर्याय कम् । उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः
प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति । उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः
अयुजो असमो नृभिरेकः कृष्टीरयास्यः । पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः
अहितेन चिदर्वता जीरदानुः सिषासति । प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः
आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना । येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य रातयः
धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम् । तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः
अव चष्ट ऋचीषमोऽवताँ इव मानुषः । जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः
विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः । भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः
गृणे तदिन्द्र ते शव उपमं देवतातये । यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः
समनेव वपुष्यतः कृणवन्मानुषा युगा । विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः
उज्जातमिन्द्र ते शव उत्त्वामुत्तव क्रतुम् । भूरिगो भूरि वावृधुर्मघवन्तव शर्मणि भद्रा इन्द्रस्य रातयः
अहं च त्वं च वृत्रहन्सं युज्याव सनिभ्य आ । अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः
सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम् । महाँ असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः
स पूर्व्यो महानां वेनः क्रतुभिरानजे । यस्य द्वारा मनुष्पिता देवेषु धिय आनजे
दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः । उक्था ब्रह्म च शंस्या
स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप । स्तुषे तदस्य पौंस्यम्
स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः । शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे
आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः । श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने
इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च । यमर्का अध्वरं विदुः
यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत । अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः
इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या । प्रावश्चक्रस्य वर्तनिम्