एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः । ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः
नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे । यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व
आ नो विश्वे सजोषसो देवासो गन्तनोप नः । वसवो रुद्रा अवसे न आ गमञ्छृण्वन्तु मरुतो हवम्
पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः । आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम्
यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम । तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन्
आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो । वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे
सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् । अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम्
वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो । महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय
भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति । राधस्ते दस्यवे वृक
शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते । मह्ना दिवं न तस्तभुः
शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि । शतं मे बल्बजस्तुका अरुषीणां चतुःशतम्
सुदेवा स्थ काण्वायना वयोवयो विचरन्तः । अश्वासो न चङ्क्रमत
आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः । श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे
प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् । द्यौर्न प्रथिना शवः
दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः । नित्याद्रायो अमंहत
शतं मे गर्दभानां शतमूर्णावतीनाम् । शतं दासाँ अति स्रजः
तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता । अश्वानामिन्न यूथ्याम्
अचेत्यग्निश्चिकितुर्हव्यवाट् स सुमद्रथः । अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत
युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा । आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः
युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् । अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी
पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै
अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम् । पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवतं शचीभिः
यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति । यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित्
एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः । एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम्
ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम् । चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्तं पिबध्यै
इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः
निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत । या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते
सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः । ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः
घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य । या ह वामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम्
अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् । अस्मान्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती