दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते । सदा राया पुरुस्पृहा
तमिन्द्रं दानमीमहे शवसानमभीर्वम् । ईशानं राय ईमहे
तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा । तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम्
यस्ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः । य आददिः स्वर्नृभिर्यः पृतनासु दुष्टरः
यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता । स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे
गव्यो षु णो यथा पुराश्वयोत रथया । वरिवस्य महामह
नहि ते शूर राधसोऽन्तं विन्दामि सत्रा । दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ
य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः । तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः
स नो वाजेष्वविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत्
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् । इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा
ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम् । नूनमथ
विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः । कृपयतो नूनमत्यथ
महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरंगमाय जग्मये । यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा
ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् । यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे
प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर । रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते
सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत । प्रासहा सम्राट् सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम्
आ स एतु य ईवदाँ अदेवः पूर्तमाददे । यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे
षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता । दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा
दश श्यावा ऋधद्रयो वीतवारास आशवः । मथ्रा नेमिं नि वावृतुः
दानासः पृथुश्रवसः कानीतस्य सुराधसः । रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः
आ नो वायो महे तने याहि मखाय पाजसे । वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने
यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम् । एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः
यो म इमं चिदु त्मनामन्दच्चित्रं दावने । अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः
उचथ्ये वपुषि यः स्वराळुत वायो घृतस्नाः । अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत्
अध प्रियमिषिराय षष्टिं सहस्रासनम् । अश्वानामिन्न वृष्णाम्
गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः
अध यच्चारथे गणे शतमुष्ट्राँ अचिक्रदत् । अध श्वित्नेषु विंशतिं शता
शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे । ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः
अध स्या योषणा मही प्रतीची वशमश्व्यम् । अधिरुक्मा वि नीयते
महि वो महतामवो वरुण मित्र दाशुषे । यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुऊतयो व ऊतयः