ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः । उरुरध्वा स्वस्तये
अरमतिरनर्वणो विश्वो देवस्य मनसा । आदित्यानामनेह इत्
यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः । सुगा ऋतस्य पन्थाः
अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम् । सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम्
मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्
न यजमान रिष्यसि न सुन्वान न देवयो । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्
नकिष्टं कर्मणा नशन्न प्र योषन्न योषति । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्
असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्
प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया । मदे सोमस्य वोचत
यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम् । वधीदुग्रो रिणन्नपः
न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर । कृषे तदिन्द्र पौंस्यम्
प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि । हुवे सुशिप्रमूतये
स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः । पुरं न शूर दर्षसि
यदि मे रारणः सुत उक्थे वा दधसे चनः । आरादुप स्वधा गहि
वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः । त्वं नो जिन्व सोमपाः
उत नः पितुमा भर संरराणो अविक्षितम् । मघवन्भूरि ते वसु
उत नो गोमतस्कृधि हिरण्यवतो अश्विनः । इळाभिः सं रभेमहि
बृबदुक्थं हवामहे सृप्रकरस्नमूतये । साधु कृण्वन्तमवसे
यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा । जरितृभ्यः पुरूवसुः
स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः । इन्द्रो विश्वाभिरूतिभिः
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा । तमिन्द्रमभि गायत
आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् । भूरेरीशानमोजसा
नकिरस्य शचीनां नियन्ता सूनृतानाम् । नकिर्वक्ता न दादिति
न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् । न सोमो अप्रता पपे
पन्य इदुप गायत पन्य उक्थानि शंसत । ब्रह्मा कृणोत पन्य इत्
पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः । इन्द्रो यो यज्वनो वृधः
वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः । इन्द्र पिब सुतानाम्
पिब स्वधैनवानामुत यस्तुग्र्ये सचा । उतायमिन्द्र यस्तव
अतीहि मन्युषाविणं सुषुवांसमुपारणे । इमं रातं सुतं पिब
इहि तिस्रः परावत इहि पञ्च जनाँ अति । धेना इन्द्रावचाकशत्