तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः
पथ एकः पीपाय तस्करो यथाँ एष वेद निधीनाम्
त्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति
विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः
सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती
अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन्
नहि वो अस्त्यर्भको देवासो न कुमारकः । विश्वे सतोमहान्त इत्
इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च । मनोर्देवा यज्ञियासः
ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत । मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः
ये देवास इह स्थन विश्वे वैश्वानरा उत । अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत
यो यजाति यजात इत्सुनवच्च पचाति च । ब्रह्मेदिन्द्रस्य चाकनत्
पुरोळाशं यो अस्मै सोमं ररत आशिरम् । पादित्तं शक्रो अंहसः
तस्य द्युमाँ असद्रथो देवजूतः स शूशुवत् । विश्वा वन्वन्नमित्रिया
अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे । इळा धेनुमती दुहे
या दम्पती समनसा सुनुत आ च धावतः । देवासो नित्ययाशिरा
प्रति प्राशव्याँ इतः सम्यञ्चा बर्हिराशाते । न ता वाजेषु वायतः
न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः । श्रवो बृहद्विवासतः
पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः । उभा हिरण्यपेशसा
वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् । समूधो रोमशं हतो देवेषु कृणुतो दुवः
आ शर्म पर्वतानां वृणीमहे नदीनाम् । आ विष्णोः सचाभुवः
ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः । उरुरध्वा स्वस्तये
अरमतिरनर्वणो विश्वो देवस्य मनसा । आदित्यानामनेह इत्
यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः । सुगा ऋतस्य पन्थाः
अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम् । सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम्
मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्
न यजमान रिष्यसि न सुन्वान न देवयो । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्
नकिष्टं कर्मणा नशन्न प्र योषन्न योषति । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्
असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्
प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया । मदे सोमस्य वोचत
यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम् । वधीदुग्रो रिणन्नपः