उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः । नि द्विपादश्चतुष्पादो अर्थिनोऽविश्रन्पतयिष्णवः
देवंदेवं वोऽवसे देवंदेवमभिष्टये । देवंदेवं हुवेम वाजसातये गृणन्तो देव्या धिया
देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः । ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः
प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम् । न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत्
प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति । प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते
ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः । अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः
अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम् । एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु
यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध । यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यंदिने दिवः
यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे । वयं तद्वो वसवो विश्ववेदस उप स्थेयाम मध्य आ
यदद्य सूर उदिते यन्मध्यंदिन आतुचि । वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे
वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् । अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै
ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन् । विदन्नह द्वितासनन्
वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः । पत्नीवन्तो वषट्कृताः
ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक् । पुरस्तात्सर्वया विशा
यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत् । अरावा चन मर्त्यः
सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्येषाम् । सप्तो अधि श्रियो धिरे
बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम्
योनिमेक आ ससाद द्योतनोऽन्तर्देवेषु मेधिरः
वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः
वज्रमेको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते
तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः
पथ एकः पीपाय तस्करो यथाँ एष वेद निधीनाम्
त्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति
विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः
सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती
अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन्
नहि वो अस्त्यर्भको देवासो न कुमारकः । विश्वे सतोमहान्त इत्
इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च । मनोर्देवा यज्ञियासः
ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत । मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः
ये देवास इह स्थन विश्वे वैश्वानरा उत । अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत