अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे
आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः । प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति
युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः । परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम्
कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता । उपो रयिर्देवजूतो न एतु प्र ण स्पार्हाभिरूतिभिस्तिरेतम्
अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् । प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि
इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना । सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः
पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् । घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके
स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति । युवं ताँ इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः
आपश्चिद्धि स्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः । कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हन्ति
स सुक्रतुरृतचिदस्तु होता य आदित्य शवसा वां नमस्वान् । आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान्
इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना । सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः
धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी । प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम
उत स्वया तन्वा सं वदे तत्कदा न्वन्तर्वरुणे भुवानि । किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम्
पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् । समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते
किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायम् । प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयाम्
अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः । अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम्
न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः । अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता
अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः । अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति
अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु । शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः
रदत्पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् । सर्गो न सृष्टो अर्वतीरृतायञ्चकार महीरवनीरहभ्यः
आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान् । अन्तर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि
परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके । ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म
उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति । विद्वान्पदस्य गुह्या न वोचद्युगाय विप्र उपराय शिक्षन्
तिस्रो द्यावो निहिता अन्तरस्मिन्तिस्रो भूमीरुपराः षड्विधानाः । गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम्
अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान् । गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा
यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः । अनु व्रतान्यदितेरृधन्तो यूयं पात स्वस्तिभिः सदा नः
प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व । य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम्
अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि । स्वर्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात्
आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यम् । अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम्
वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः । स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः