उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता । युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां नः
आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु । स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम्
यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमाँ उस्रयामा । आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति
युवं च्यवानं जरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् । निरंहसस्तमस स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः
इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् । इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः
आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् । अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना
आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन । युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम्
उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः । आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति
वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते । ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः
अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः । पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः
न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान्
अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् । श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः
उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी । समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते । अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु
आ यातमुप भूषतं मध्वः पिबतमश्विना । दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम्
अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः । मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू
अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या
प्र ये ययुरवृकासो रथा इव नृपातारो जनानाम् । उत स्वेन शवसा शूशुवुर्नर उत क्षियन्ति सुक्षितिम्
व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् । अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः
महे नो अद्य सुविताय बोध्युषो महे सौभगाय प्र यन्धि । चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि श्रवस्युम्
एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगुः । जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा व्यस्थुः
एषा स्या युजाना पराकात्पञ्च क्षितीः परि सद्यो जिगाति । अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी
वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् । ऋषिष्टुता जरयन्ती मघोन्युषा उच्छति वह्निभिर्गृणाना
प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः । याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय
सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः । रुजद्दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशन्त
नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो अस्मे । मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा नः
उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् । क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः