यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति । द्रुहः पाशान्प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम्
सांतपना इदं हविर्मरुतस्तज्जुजुष्टन । युष्माकोती रिशादसः
गृहमेधास आ गत मरुतो माप भूतन । युष्माकोती सुदानवः
इहेह वः स्वतवसः कवयः सूर्यत्वचः । यज्ञं मरुत आ वृणे
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्
यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् । वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः
एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् । विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन्
अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः । धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे
उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः । यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः
इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति । इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः
इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयन्ति दक्षैः । अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथा नयन्ति
इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति । प्रव्राजे चिन्नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन्
यद्गोपावददितिः शर्म भद्रं मित्रो यच्छन्ति वरुणः सुदासे । तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः
अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः । परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम्
सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते । युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः
यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः । सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु
इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि । विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः
उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान् । अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत
प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति । यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे
प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद्बृहतः सुदानू । स्पशो दधाथे ओषधीषु विक्ष्वृधग्यतो अनिमिषं रक्षमाणा
शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा । अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते
अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षम् । द्रुहः सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन्
समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः । प्र वां मन्मान्यृचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि
इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि । विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः
उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम् । समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत्
स सूर्य प्रति पुरो न उद्गा एभि स्तोमेभिरेतशेभिरेवैः । प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च
वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः
द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे । मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम्
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा
नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु । सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः