मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति । ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः
निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म । अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः
नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः । आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम्
ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम । मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा
कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः
उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि । ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि
आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात । ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः
प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् । उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेरवंशात्
जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः । प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन्भयते स्वर्दृक्
बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः । गतो नाध्वा वि तिराति जन्तुं प्र ण स्पार्हाभिरूतिभिस्तिरेत
युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री । युष्मोतः सम्राळुत हन्ति वृत्रं प्र तद्वो अस्तु धूतयो देष्णम्
ताँ आ रुद्रस्य मीळ्हुषो विवासे कुविन्नंसन्ते मरुतः पुनर्नः । यत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम्
प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त । आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः
यं त्रायध्व इदमिदं देवासो यं च नयथ । तस्मा अग्ने वरुण मित्रार्यमन्मरुतः शर्म यच्छत
युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विषः । प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति
नहि वश्चरमं चन वसिष्ठः परिमंसते । अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः
नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः । अभि व आवर्त्सुमतिर्नवीयसी तूयं यात पिपीषवः
ओ षु घृष्विराधसो यातनान्धांसि पीतये । इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन
आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु । अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै
सस्वश्चिद्धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् । विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः
यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति । द्रुहः पाशान्प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम्
सांतपना इदं हविर्मरुतस्तज्जुजुष्टन । युष्माकोती रिशादसः
गृहमेधास आ गत मरुतो माप भूतन । युष्माकोती सुदानवः
इहेह वः स्वतवसः कवयः सूर्यत्वचः । यज्ञं मरुत आ वृणे
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्
यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् । वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः
एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् । विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन्
अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः । धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे
उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः । यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः
इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति । इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः