यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिरुग्राः
उग्रं व ओज स्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान्
शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः
सनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह प्रणङ्नः
प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः
स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः
शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः । ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः
अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः । वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः
प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम् । सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम्
यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् । मक्षू रायः सुवीर्यस्य दात नू चिद्यमन्य आदभदरावा
अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः
दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके । आरे गोहा नृहा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम्
आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः । य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः
इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति । इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति
इमे रध्रं चिन्मरुतो जुनन्ति भृमिं चिद्यथा वसवो जुषन्त । अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनयं तोकमस्मे
मा वो दात्रान्मरुतो निरराम मा पश्चाद्दघ्म रथ्यो विभागे । आ न स्पार्हे भजतना वसव्ये यदीं सुजातं वृषणो वो अस्ति
सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु । अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः
भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित् । मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित्सनिता वाजमर्वा
अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता । अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम
तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त । शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः
मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति । ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः
निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म । अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः
नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः । आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम्
ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम । मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा
कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः
उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि । ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि
आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात । ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः
प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् । उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेरवंशात्
जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः । प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन्भयते स्वर्दृक्
बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः । गतो नाध्वा वि तिराति जन्तुं प्र ण स्पार्हाभिरूतिभिस्तिरेत