तुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः । पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषन्त
प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे । ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे
प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम्
उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे । अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्वस्तिभिः सदा नः
वास्तोष्पते प्रति जानीह्यस्मान्स्वावेशो अनमीवो भवा नः । यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे
वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व
वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः
अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः
यदर्जुन सारमेय दतः पिशङ्ग यच्छसे । वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप
स्तेनं राय सारमेय तस्करं वा पुनःसर । स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप
त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः । स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप
सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः । ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः
य आस्ते यश्च चरति यश्च पश्यति नो जनः । तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा
सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् । तेना सहस्येना वयं नि जनान्स्वापयामसि
प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः । स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि
क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः
नकिर्ह्येषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम्
अभि स्वपूभिर्मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन्
एतानि धीरो निण्या चिकेत पृश्निर्यदूधो मही जभार
सा विट् सुवीरा मरुद्भिरस्तु सनात्सहन्ती पुष्यन्ती नृम्णम्
यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिरुग्राः
उग्रं व ओज स्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान्
शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः
सनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह प्रणङ्नः
प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः
स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः
शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः । ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः
अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः । वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः
प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम् । सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम्
यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् । मक्षू रायः सुवीर्यस्य दात नू चिद्यमन्य आदभदरावा