आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ । शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः
आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः । हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम
उदस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्ताँ अनष्टाम् । नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम्
स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि । विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः
इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम् । चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः
इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः
स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति । अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव
या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः । सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः
मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य । आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः
आपो यं वः प्रथमं देवयन्त इन्द्रपानमूर्मिमकृण्वतेळः । तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमन्तं वनेम
तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा । यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य
शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः । ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत
याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद्गातुमूर्मिम् । ते सिन्धवो वरिवो धातना नो यूयं पात स्वस्तिभिः सदा नः
ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य । आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु
ऋभुरृभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि । वाजो अस्माँ अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम्
ते चिद्धि पूर्वीरभि सन्ति शासा विश्वाँ अर्य उपरताति वन्वन् । इन्द्रो विभ्वाँ ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णम्
नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः । समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः
समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः । इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः । समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् । मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति । वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु
आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन् । अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः
यद्विजामन्परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत् । अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः
यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषम् । विश्वे देवा निरितस्तत्सुवन्तु मा मां पद्येन रपसा विदत्त्सरुः
याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः । ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु
आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शंतमेन । अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः
आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः । अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य
आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे । इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः
आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा । सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः
मित्रस्तन्नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः । मा वो भुजेमान्यजातमेनो मा तत्कर्म वसवो यच्चयध्वे