एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् । इषं रयिं पप्रथद्वाजमस्मे यूयं पात स्वस्तिभिः सदा नः
प्र वो यज्ञेषु देवयन्तो अर्चन्द्यावा नमोभिः पृथिवी इषध्यै । येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियन्ति वनिनो न शाखाः
प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः । स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः
आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु । आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस्कः
ते सीषपन्त जोषमा यजत्रा ऋतस्य धाराः सुदुघा दुहानाः । ज्येष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति ष्ठ
एवा नो अग्ने विक्ष्वा दशस्य त्वया वयं सहसावन्नास्क्राः । राया युजा सधमादो अरिष्टा यूयं पात स्वस्तिभिः सदा नः
दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे । इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः
दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः । इळां देवीं बर्हिषि सादयन्तोऽश्विना विप्रा सुहवा हुवेम
दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गाम् । ब्रध्नं माँश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद्दुरिता यावयन्तु
दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् । संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः
आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ । शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः
आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः । हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम
उदस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्ताँ अनष्टाम् । नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम्
स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि । विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः
इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम् । चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः
इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः
स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति । अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव
या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः । सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः
मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य । आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः
आपो यं वः प्रथमं देवयन्त इन्द्रपानमूर्मिमकृण्वतेळः । तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमन्तं वनेम
तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा । यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य
शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः । ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत
याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद्गातुमूर्मिम् । ते सिन्धवो वरिवो धातना नो यूयं पात स्वस्तिभिः सदा नः
ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य । आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु
ऋभुरृभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि । वाजो अस्माँ अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम्
ते चिद्धि पूर्वीरभि सन्ति शासा विश्वाँ अर्य उपरताति वन्वन् । इन्द्रो विभ्वाँ ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णम्
नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः । समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः
समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः । इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः । समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् । मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु