शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः । शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम्वस्तु वेदिः
शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु । शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः
शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः
शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः
शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः । शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु
शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः । शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा
आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः । शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः
ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः । ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः
प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः । वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः
इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः । इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः
आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः । महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन्
गिरा य एता युनजद्धरी त इन्द्र प्रिया सुरथा शूर धायू । प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्याम्
यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् । वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम्
आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता । याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः
उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनोऽवन्तु । मा नः परि ख्यदक्षरा चरन्त्यवीवृधन्युज्यं ते रयिं नः
प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम् । भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिम्
अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः
आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः । अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम्
यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् । सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम्
उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे । उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या
त्वमिन्द्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्यृक्वा । वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः
सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः । ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः
वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः । अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी
अभि यं देवी निरृतिश्चिदीशे नक्षन्त इन्द्रं शरदः सुपृक्षः । उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः
आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ । सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः
उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत् । नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति
उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृतावृतस्य । व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः
अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति । स न स्तोमान्नमस्यश्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन्
अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा । अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः