विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्यापो अध क्षरन्तीः
आपश्चिदस्मै पिन्वन्त पृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः
आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः
अभि प्र स्थाताहेव यज्ञं यातेव पत्मन्त्मना हिनोत
त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम्
उदस्य शुष्माद्भानुर्नार्त बिभर्ति भारं पृथिवी न भूम
ह्वयामि देवाँ अयातुरग्ने साधन्नृतेन धियं दधामि
अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम्
आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः
राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै क्षत्रं विश्वायु
अविष्टो अस्मान्विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः
व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्तनूनाम्
अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः
सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु
अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन्
मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः
उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः
तपन्ति शत्रुं स्वर्ण भूमा महासेनासो अमेभिरेषाम्
आ यन्नः पत्नीर्गमन्त्यच्छा त्वष्टा सुपाणिर्दधातु वीरान्
प्रति न स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः
ता नो रासन्रातिषाचो वसून्या रोदसी वरुणानी शृणोतु । वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः
तन्नो रायः पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः । वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः
अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा । अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै
तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त । शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः
शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ
शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु
शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु
शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् । शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः
शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु । शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः
शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु