नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय । गोमदश्वावद्रथवद्व्यन्तो यूयं पात स्वस्तिभिः सदा नः
ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः । विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व
हवं त इन्द्र महिमा व्यानड्ब्रह्म यत्पासि शवसिन्नृषीणाम् । आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्रत्वा जनिष्ठा अषाळ्हः
तव प्रणीतीन्द्र जोहुवानान्सं यन्नॄन्न रोदसी निनेथ । महे क्षत्राय शवसे हि जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत्
एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते । प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात्
वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः । यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः
अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः । पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः
ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम् । अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः
का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम । विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा
उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोरृषीणाम् । अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव
वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः । यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः
आ नो देव शवसा याहि शुष्मिन्भवा वृध इन्द्र रायो अस्य । महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर
हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ । त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु
अहा यदिन्द्र सुदिना व्युच्छान्दधो यत्केतुमुपमं समत्सु । न्यग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान्
वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि । यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणामश्नवन्त
वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः । यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः
प्र व इन्द्राय मादनं हर्यश्वाय गायत । सखायः सोमपाव्ने
शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः । चकृमा सत्यराधसे
त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो । त्वं हिरण्ययुर्वसो
वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् । विद्धी त्वस्य नो वसो
मा नो निदे च वक्तवेऽर्यो रन्धीरराव्णे । त्वे अपि क्रतुर्मम
त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् । त्वया प्रति ब्रुवे युजा
महाँ उतासि यस्य तेऽनु स्वधावरी सहः । मम्नाते इन्द्र रोदसी
तं त्वा मरुत्वती परि भुवद्वाणी सयावरी । नक्षमाणा सह द्युभिः
ऊर्ध्वासस्त्वान्विन्दवो भुवन्दस्ममुप द्यवि । सं ते नमन्त कृष्टयः
प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । विशः पूर्वीः प्र चरा चर्षणिप्राः
उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः । तस्य व्रतानि न मिनन्ति धीराः
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै । हर्यश्वाय बर्हया समापीन्
मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन् । आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः