तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि । त्वं नृभिर्हव्यो विश्वधासि
नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र । न वीर्यमिन्द्र ते न राधः
ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः । अस्मे ते सन्तु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः
उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि
अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि । नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान्
युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः । वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान्
आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र । याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान्
ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः । स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः
योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि । असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः
गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि । विसृष्टधेना भरते सुवृक्तिरियमिन्द्रं जोहुवती मनीषा
आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि । वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय
आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि । वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र
एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि । इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः
आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः । पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्वि चारीत्
नि दुर्ग इन्द्र श्नथिह्यमित्राँ अभि ये नो मर्तासो अमन्ति । आरे तं शंसं कृणुहि निनित्सोरा नो भर सम्भरणं वसूनाम्
शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु । जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि
त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतोऽवितुः शूर रातौ । विश्वेदहानि तविषीव उग्रँ ओकः कृणुष्व हरिवो न मर्धीः
कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः । सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम्
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः
न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः । तस्मा उक्थं जनये यज्जुजोषन्नृवन्नवीयः शृणवद्यथा नः
उक्थौक्थे सोम इन्द्रं ममाद नीथेनीथे मघवानं सुतासः । यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते
चकार ता कृणवन्नूनमन्या यानि ब्रुवन्ति वेधसः सुतेषु । जनीरिव पतिरेकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः
एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम् । मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि
एवा वसिष्ठ इन्द्रमूतये नॄन्कृष्टीनां वृषभं सुते गृणाति । सहस्रिण उप नो माहि वाजान्यूयं पात स्वस्तिभिः सदा नः
इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः । शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः
य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः । त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः
इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक्
नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती । अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः