देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि । इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ
कीरिश्चिद्धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः । अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता
सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र । वन्वन्तु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसि
स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति । वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः
पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्यां सुयतो नार्वा
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि । स त्वामिन्द्र प्रभूवसो ममत्तु
बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व
श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् । कृष्वा दुवांस्यन्तमा सचेमा
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् । सदा ते नाम स्वयशो विवक्मि
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् । मारे अस्मन्मघवञ्ज्योक्कः
तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि । त्वं नृभिर्हव्यो विश्वधासि
नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र । न वीर्यमिन्द्र ते न राधः
ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः । अस्मे ते सन्तु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः
उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि
अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि । नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान्
युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः । वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान्
आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र । याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान्
ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः । स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः
योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि । असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः
गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि । विसृष्टधेना भरते सुवृक्तिरियमिन्द्रं जोहुवती मनीषा
आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि । वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय
आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि । वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र
एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि । इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः
आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः । पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्वि चारीत्
नि दुर्ग इन्द्र श्नथिह्यमित्राँ अभि ये नो मर्तासो अमन्ति । आरे तं शंसं कृणुहि निनित्सोरा नो भर सम्भरणं वसूनाम्
शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु । जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि
त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतोऽवितुः शूर रातौ । विश्वेदहानि तविषीव उग्रँ ओकः कृणुष्व हरिवो न मर्धीः
कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः । सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम्