महाँ अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते । आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह
त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः । यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति
त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय । मनुष्वदग्न इह यक्षि देवान्भवा नो दूतो अभिशस्तिपावा
अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य । क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम्
आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम् । इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम्
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः । स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः
प्राग्नये विश्वशुचे धियंधेऽसुरघ्ने मन्म धीतिं भरध्वम् । भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम्
त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । त्वं देवाँ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा
जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः
समिधा जातवेदसे देवाय देवहूतिभिः । हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये
वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र । वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे
आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः । तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः
उपसद्याय मीळ्हुष आस्ये जुहुता हविः । यो नो नेदिष्ठमाप्यम्
यः पञ्च चर्षणीरभि निषसाद दमेदमे । कविर्गृहपतिर्युवा
स नो वेदो अमात्यमग्नी रक्षतु विश्वतः । उतास्मान्पात्वंहसः
नवं नु स्तोममग्नये दिवः श्येनाय जीजनम् । वस्वः कुविद्वनाति नः
स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा । अग्रे यज्ञस्य शोचतः
सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः । यजिष्ठो हव्यवाहनः
नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि । सुवीरमग्न आहुत
क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयम् । सुवीरस्त्वमस्मयुः
उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः । उपाक्षरा सहस्रिणी
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्यः
स नो राधांस्या भरेशानः सहसो यहो । भगश्च दातु वार्यम्
त्वमग्ने वीरवद्यशो देवश्च सविता भगः । दितिश्च दाति वार्यम्
अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः । तपिष्ठैरजरो दह
अधा मही न आयस्यनाधृष्टो नृपीतये । पूर्भवा शतभुजिः
त्वं नः पाह्यंहसो दोषावस्तरघायतः । दिवा नक्तमदाभ्य
एना वो अग्निं नमसोर्जो नपातमा हुवे । प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम्