एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन् । प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन । नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि
अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः । वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे
कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः । कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः
प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः । अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच
असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः । शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः
अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः । दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु
स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः । होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम्
अमूरः कविरदितिर्विवस्वान्सुसंसन्मित्रो अतिथिः शिवो नः । चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व आ विवेश
ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः । सुसंदृशा भानुना यो विभाति प्रति गावः समिधानं बुधन्त
अग्ने याहि दूत्यं मा रिषण्यो देवाँ अच्छा ब्रह्मकृता गणेन । सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान्
त्वामग्ने समिधानो वसिष्ठो जरूथं हन्यक्षि राये पुरंधिम् । पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः
उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः । वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः
स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म । अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः
अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः । सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम्
इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् । आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम्
मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु । स हि क्षपावाँ अभवद्रयीणामतन्द्रो दूतो यजथाय देवान्
महाँ अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते । आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह
त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः । यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति
त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय । मनुष्वदग्न इह यक्षि देवान्भवा नो दूतो अभिशस्तिपावा
अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य । क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम्
आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम् । इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम्
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः । स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः
प्राग्नये विश्वशुचे धियंधेऽसुरघ्ने मन्म धीतिं भरध्वम् । भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम्
त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । त्वं देवाँ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा