पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् । स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण
त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि । वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः
तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त । त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः
त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः । पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम्
त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषन्त । त्वं दस्यूँरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय
स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः । त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन्
तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः । यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय
तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व । वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः
प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य । इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि
कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः । पुरंदरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि
न्यक्रतून्ग्रथिनो मृध्रवाचः पणीँरश्रद्धाँ अवृधाँ अयज्ञान् । प्रप्र तान्दस्यूँरग्निर्विवाय पूर्वश्चकारापराँ अयज्यून्
यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः । तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून्
यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार । स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः
यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः । वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम्
आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य । आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः
प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः । भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः
आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः । आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि
प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता । आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः
सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् । विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा
असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता । द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम्
एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन् । प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन । नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि
अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः । वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे
कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः । कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः
प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः । अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच
असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः । शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः
अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः । दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु