इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता । युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये
इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन्बर्हिषि मादयेथाम्
सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता
या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना । प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः
इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना । सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः
आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु । जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे
इन्द्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे । अकृणुतमन्तरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि
इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या । घृतासुती द्रविणं धत्तमस्मे समुद्र स्थः कलशः सोमधानः
इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् । आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे
उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः । इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम्
घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा
असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते । राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम्
यो वामृजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति । प्र प्रजाभिर्जायते धर्मणस्परि युवोः सिक्ता विषुरूपाणि सव्रता
घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा । उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये
मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते । दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम्
ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा । संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम्
उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः । घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि
देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने । यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः
अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत
उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात् । अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम्
उदू अयाँ उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका । दिवो रोहांस्यरुहत्पृथिव्या अरीरमत्पतयत्कच्चिदभ्वम्
वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः । वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम
इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः । युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च
इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह । उप द्यां स्कम्भथु स्कम्भनेनाप्रथतं पृथिवीं मातरं वि
इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत । प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि
इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु । जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः
इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे । युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा
यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् । द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति
जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार । घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान्पृत्सु साहन्
बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः । अपः सिषासन्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः