सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो । सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै
सा वह योक्षभिरवातोषो वरं वहसि जोषमनु । त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः
उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ । अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय
एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छन्ती मानुषीरजीगः । या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून्
वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः । अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः
श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय । मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य
इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः । इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित्
इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति । व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः
उच्छा दिवो दुहितः प्रत्नवन्नो भरद्वाजवद्विधते मघोनि । सुवीरं रयिं गृणते रिरीह्युरुगायमधि धेहि श्रवो नः
वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम् । मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः
ये अग्नयो न शोशुचन्निधाना द्विर्यत्त्रिर्मरुतो वावृधन्त । अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश्च भूवन्
रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा याँश्चो नु दाधृविर्भरध्यै । विदे हि माता महो मही षा सेत्पृश्निः सुभ्वे गर्भमाधात्
न य ईषन्ते जनुषोऽया न्वन्तः सन्तोऽवद्यानि पुनानाः । निर्यद्दुह्रे शुचयोऽनु जोषमनु श्रिया तन्वमुक्षमाणाः
मक्षू न येषु दोहसे चिदया आ नाम धृष्णु मारुतं दधानाः । न ये स्तौना अयासो मह्ना नू चित्सुदानुरव यासदुग्रान्
त इदुग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके । अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः
अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः । अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन्
नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ । तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः
प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः
त्विषीमन्तो अध्वरस्येव दिद्युत्तृषुच्यवसो जुह्वो नाग्नेः । अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः
तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे । दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन्
विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणा वावृधध्यै । सं या रश्मेव यमतुर्यमिष्ठा द्वा जनाँ असमा बाहुभिः स्वैः
इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ । यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू
आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना । सं यावप्नस्थो अपसेव जनाञ्छ्रुधीयतश्चिद्यतथो महित्वा
अश्वा न या वाजिना पूतबन्धू ऋता यद्गर्भमदितिर्भरध्यै । प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः
विश्वे यद्वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः । परि यद्भूथो रोदसी चिदुर्वी सन्ति स्पशो अदब्धासो अमूराः
ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः । दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः
ता विग्रं धैथे जठरं पृणध्या आ यत्सद्म सभृतयः पृणन्ति । न मृष्यन्ते युवतयोऽवाता वि यत्पयो विश्वजिन्वा भरन्ते
ता जिह्वया सदमेदं सुमेधा आ यद्वां सत्यो अरतिरृते भूत् । तद्वां महित्वं घृतान्नावस्तु युवं दाशुषे वि चयिष्टमंहः
प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति । न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः
वि यद्वाचं कीस्तासो भरन्ते शंसन्ति के चिन्निविदो मनानाः । आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा