अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् । प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानाम्
युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुः सूर्यायाः । प्र वां वयो वपुषेऽनु पप्तन्नक्षद्वाणी सुष्टुता धिष्ण्या वाम्
आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु । प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः
पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम् । स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन्
उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा । शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान्
सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात् । भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः
आ वां सुम्ने वरिमन्सूरिभिः ष्याम्
उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः । कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी
भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन् । आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः
वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम् । अपेजते शूरो अस्तेव शत्रून्बाधते तमो अजिरो न वोळ्हा
सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो । सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै
सा वह योक्षभिरवातोषो वरं वहसि जोषमनु । त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः
उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ । अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय
एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छन्ती मानुषीरजीगः । या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून्
वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः । अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः
श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय । मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य
इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः । इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित्
इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति । व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः
उच्छा दिवो दुहितः प्रत्नवन्नो भरद्वाजवद्विधते मघोनि । सुवीरं रयिं गृणते रिरीह्युरुगायमधि धेहि श्रवो नः
वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम् । मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः
ये अग्नयो न शोशुचन्निधाना द्विर्यत्त्रिर्मरुतो वावृधन्त । अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश्च भूवन्
रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा याँश्चो नु दाधृविर्भरध्यै । विदे हि माता महो मही षा सेत्पृश्निः सुभ्वे गर्भमाधात्
न य ईषन्ते जनुषोऽया न्वन्तः सन्तोऽवद्यानि पुनानाः । निर्यद्दुह्रे शुचयोऽनु जोषमनु श्रिया तन्वमुक्षमाणाः
मक्षू न येषु दोहसे चिदया आ नाम धृष्णु मारुतं दधानाः । न ये स्तौना अयासो मह्ना नू चित्सुदानुरव यासदुग्रान्
त इदुग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके । अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः
अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः । अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन्
नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ । तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः
प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः
त्विषीमन्तो अध्वरस्येव दिद्युत्तृषुच्यवसो जुह्वो नाग्नेः । अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः
तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे । दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन्