उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्या भूत्
आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् । सरस्वती निदस्पातु
त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । वाजेवाजे हव्या भूत्
प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा । रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती
सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म
स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः । या सद्य उस्रा व्युषि ज्मो अन्तान्युयूषतः पर्युरू वरांसि
ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचू रजोभिः । पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान्
ता ह त्यद्वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः । मनोजवेभिरिषिरैः शयध्यै परि व्यथिर्दाशुषो मर्त्यस्य
ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती । शुभं पृक्षमिषमूर्जं वहन्ता होता यक्षत्प्रत्नो अध्रुग्युवाना
ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे । या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती
ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः । अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात्
वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः । दशस्यन्ता शयवे पिप्यथुर्गामिति च्यवाना सुमतिं भुरण्यू
यद्रोदसी प्रदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा । तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात
य ईं राजानावृतुथा विदधद्रजसो मित्रो वरुणश्चिकेतत् । गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद्वचस आनवाय
अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन । सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम्
आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक् । दृळ्हस्य चिद्गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती
क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् । आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन्
अरं मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः । परि ह त्यद्वर्तिर्याथो रिषो न यत्परो नान्तरस्तुतुर्यात्
अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम् । उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन्
ऊर्ध्वो वामग्निरध्वरेष्वस्थात्प्र रातिरेति जूर्णिनी घृताची । प्र होता गूर्तमना उराणोऽयुक्त यो नासत्या हवीमन्
अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् । प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानाम्
युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुः सूर्यायाः । प्र वां वयो वपुषेऽनु पप्तन्नक्षद्वाणी सुष्टुता धिष्ण्या वाम्
आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु । प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः
पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम् । स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन्
उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा । शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान्
सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात् । भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः
आ वां सुम्ने वरिमन्सूरिभिः ष्याम्
उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः । कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी
भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन् । आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः
वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम् । अपेजते शूरो अस्तेव शत्रून्बाधते तमो अजिरो न वोळ्हा