विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म । मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम
ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे । ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवाः
अग्नीपर्जन्याववतं धियं मेऽस्मिन्हवे सुहवा सुष्टुतिं नः । इळामन्यो जनयद्गर्भमन्यः प्रजावतीरिष आ धत्तमस्मे
स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे । अस्मिन्नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम्
वयमु त्वा पथस्पते रथं न वाजसातये । धिये पूषन्नयुज्महि
अभि नो नर्यं वसु वीरं प्रयतदक्षिणम् । वामं गृहपतिं नय
अदित्सन्तं चिदाघृणे पूषन्दानाय चोदय । पणेश्चिद्वि म्रदा मनः
वि पथो वाजसातये चिनुहि वि मृधो जहि । साधन्तामुग्र नो धियः
परि तृन्धि पणीनामारया हृदया कवे । अथेमस्मभ्यं रन्धय
वि पूषन्नारया तुद पणेरिच्छ हृदि प्रियम् । अथेमस्मभ्यं रन्धय
आ रिख किकिरा कृणु पणीनां हृदया कवे । अथेमस्मभ्यं रन्धय
यां पूषन्ब्रह्मचोदनीमारां बिभर्ष्याघृणे । तया समस्य हृदयमा रिख किकिरा कृणु
या ते अष्ट्रा गोपशाघृणे पशुसाधनी । तस्यास्ते सुम्नमीमहे
उत नो गोषणिं धियमश्वसां वाजसामुत । नृवत्कृणुहि वीतये
सं पूषन्विदुषा नय यो अञ्जसानुशासति । य एवेदमिति ब्रवत्
समु पूष्णा गमेमहि यो गृहाँ अभिशासति । इम एवेति च ब्रवत्
पूष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते । नो अस्य व्यथते पविः
यो अस्मै हविषाविधन्न तं पूषापि मृष्यते । प्रथमो विन्दते वसु
पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । पूषा वाजं सनोतु नः
पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः । अस्माकं स्तुवतामुत
माकिर्नेशन्माकीं रिषन्माकीं सं शारि केवटे । अथारिष्टाभिरा गहि
शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम् । ईशानं राय ईमहे
पूषन्तव व्रते वयं न रिष्येम कदा चन । स्तोतारस्त इह स्मसि
परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् । पुनर्नो नष्टमाजतु
एहि वां विमुचो नपादाघृणे सं सचावहै । रथीरृतस्य नो भव
रथीतमं कपर्दिनमीशानं राधसो महः । रायः सखायमीमहे
रायो धारास्याघृणे वसो राशिरजाश्व । धीवतोधीवतः सखा
पूषणं न्वजाश्वमुप स्तोषाम वाजिनम् । स्वसुर्यो जार उच्यते
मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः । भ्रातेन्द्रस्य सखा मम
आजासः पूषणं रथे निशृम्भास्ते जनश्रियम् । देवं वहन्तु बिभ्रतः