एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः । ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः
उदु त्यच्चक्षुर्महि मित्रयोराँ एति प्रियं वरुणयोरदब्धम् । ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत्
वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः । ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान्
स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् । अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान्
रिशादसः सत्पतीँरदब्धान्महो राज्ञः सुवसनस्य दातॄन् । यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु
द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः । विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त
मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः । यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव
मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे । विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट
नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम् । नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे
ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान् । ताँ आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः
ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति । सुक्षत्रासो वरुणो मित्रो अग्निरृतधीतयो वक्मराजसत्याः
ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः । सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः
नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता । आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द
अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् । दविष्ठमस्य सत्पते कृधी सुगम्
ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः । जही न्यत्रिणं पणिं वृको हि षः
यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । कर्ता नो अध्वन्ना सुगं गोपा अमा
अपि पन्थामगन्महि स्वस्तिगामनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु
न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः । उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा
अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् । तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः
किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः । किमङ्ग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य
अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः । अवन्तु मा पर्वतासो ध्रुवासोऽवन्तु मा पितरो देवहूतौ
विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम् । तथा करद्वसुपतिर्वसूनां देवाँ ओहानोऽवसागमिष्ठः
इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना । पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव
विश्वे देवास आ गत शृणुता म इमं हवम् । एदं बर्हिर्नि षीदत
यो वो देवा घृतस्नुना हव्येन प्रतिभूषति । तं विश्व उप गच्छथ
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृळीका भवन्तु नः
विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः । जुषन्तां युज्यं पयः
स्तोत्रमिन्द्रो मरुद्गणस्त्वष्टृमान्मित्रो अर्यमा । इमा हव्या जुषन्त नः
इमं नो अग्ने अध्वरं होतर्वयुनशो यज । चिकित्वान्दैव्यं जनम्
विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम्