मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा । श्रुत्वा हवं मरुतो यद्ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते
अभि त्यं वीरं गिर्वणसमर्चेन्द्रं ब्रह्मणा जरितर्नवेन । श्रवदिद्धवमुप च स्तवानो रासद्वाजाँ उप महो गृणानः
ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शं योः । यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर्जगतो जनित्रीः
आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात् । यो दत्रवाँ उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि
उत त्वं सूनो सहसो नो अद्या देवाँ अस्मिन्नध्वरे ववृत्याः । स्यामहं ते सदमिद्रातौ तव स्यामग्नेऽवसा सुवीरः
उत त्या मे हवमा जग्म्यातं नासत्या धीभिर्युवमङ्ग विप्रा । अत्रिं न महस्तमसोऽमुमुक्तं तूर्वतं नरा दुरितादभीके
ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः । दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः
ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः । ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः
उत स्य देवः सविता भगो नोऽपां नपादवतु दानु पप्रिः । त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः
उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु
एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः । ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः
उदु त्यच्चक्षुर्महि मित्रयोराँ एति प्रियं वरुणयोरदब्धम् । ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत्
वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः । ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान्
स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् । अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान्
रिशादसः सत्पतीँरदब्धान्महो राज्ञः सुवसनस्य दातॄन् । यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु
द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः । विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त
मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः । यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव
मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे । विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट
नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम् । नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे
ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान् । ताँ आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः
ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति । सुक्षत्रासो वरुणो मित्रो अग्निरृतधीतयो वक्मराजसत्याः
ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः । सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः
नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता । आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द
अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् । दविष्ठमस्य सत्पते कृधी सुगम्
ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः । जही न्यत्रिणं पणिं वृको हि षः
यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । कर्ता नो अध्वन्ना सुगं गोपा अमा
अपि पन्थामगन्महि स्वस्तिगामनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु
न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः । उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा
अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् । तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः
किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः । किमङ्ग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य