अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान । तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै
पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः । गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः
इदं त्यत्पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपायि । मत्सद्यथा सौमनसाय देवं व्यस्मद्द्वेषो युयवद्व्यंहः
एना मन्दानो जहि शूर शत्रूञ्जामिमजामिं मघवन्नमित्रान् । अभिषेणाँ अभ्यादेदिशानान्पराच इन्द्र प्र मृणा जही च
आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः । अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम्
आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयोऽत्याः । अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु
आ ते वृषन्वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदन्तः । इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम्
वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम् । वृष्णे त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय
अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत् । अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः
अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः । अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम्
अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिम् । अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम्
य आनयत्परावतः सुनीती तुर्वशं यदुम् । इन्द्रः स नो युवा सखा
अविप्रे चिद्वयो दधदनाशुना चिदर्वता । इन्द्रो जेता हितं धनम्
महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः । नास्य क्षीयन्त ऊतयः
सखायो ब्रह्मवाहसेऽर्चत प्र च गायत । स हि नः प्रमतिर्मही
त्वमेकस्य वृत्रहन्नविता द्वयोरसि । उतेदृशे यथा वयम्
नयसीद्वति द्विषः कृणोष्युक्थशंसिनः । नृभिः सुवीर उच्यसे
ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियम् । गां न दोहसे हुवे
यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता । वीरस्य पृतनाषहः
वि दृळ्हानि चिदद्रिवो जनानां शचीपते । वृह माया अनानत
तमु त्वा सत्य सोमपा इन्द्र वाजानां पते । अहूमहि श्रवस्यवः
तमु त्वा यः पुरासिथ यो वा नूनं हिते धने । हव्यः स श्रुधी हवम्
धीभिरर्वद्भिरर्वतो वाजाँ इन्द्र श्रवाय्यान् । त्वया जेष्म हितं धनम्
अभूरु वीर गिर्वणो महाँ इन्द्र धने हिते । भरे वितन्तसाय्यः
या त ऊतिरमित्रहन्मक्षूजवस्तमासति । तया नो हिनुही रथम्
स रथेन रथीतमोऽस्माकेनाभियुग्वना । जेषि जिष्णो हितं धनम्
य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः । पतिर्जज्ञे वृषक्रतुः
यो गृणतामिदासिथापिरूती शिवः सखा । स त्वं न इन्द्र मृळय
धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः । सासहीष्ठा अभि स्पृधः
प्रत्नं रयीणां युजं सखायं कीरिचोदनम् । ब्रह्मवाहस्तमं हुवे