अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् । तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै
समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः । त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः
आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम् । उप ब्रह्माणि शृणव इमा नोऽथा ते यज्ञस्तन्वे वयो धात्
यदिन्द्र दिवि पार्ये यदृधग्यद्वा स्वे सदने यत्र वासि । अतो नो यज्ञमवसे नियुत्वान्सजोषाः पाहि गिर्वणो मरुद्भिः
अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः । गावो न वज्रिन्स्वमोको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम्
या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिम् । तया पाहि प्र ते अध्वर्युरस्थात्सं ते वज्रो वर्ततामिन्द्र गव्युः
एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः । एतं पिब हरिव स्थातरुग्र यस्येशिषे प्रदिवि यस्ते अन्नम्
सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय । एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व
ह्वयामसि त्वेन्द्र याह्यर्वाङरं ते सोमस्तन्वे भवाति । शतक्रतो मादयस्वा सुतेषु प्रास्माँ अव पृतनासु प्र विक्षु
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरंगमाय जग्मयेऽपश्चाद्दघ्वने नरे
एमेनं प्रत्येतन सोमेभिः सोमपातमम् । अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ । वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् । कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत्
यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः । अयं स सोम इन्द्र ते सुतः पिब
यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे । अयं स सोम इन्द्र ते सुतः पिब
यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः । अयं स सोम इन्द्र ते सुतः पिब
यस्य मन्दानो अन्धसो माघोनं दधिषे शवः । अयं स सोम इन्द्र ते सुतः पिब
यो रयिवो रयिंतमो यो द्युम्नैर्द्युम्नवत्तमः । सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः
यः शग्मस्तुविशग्म ते रायो दामा मतीनाम् । सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः
येन वृद्धो न शवसा तुरो न स्वाभिरूतिभिः । सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् । इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम्
यं वर्धयन्तीद्गिरः पतिं तुरस्य राधसः । तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः
तद्व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि । विपो न यस्योतयो वि यद्रोहन्ति सक्षितः
अविदद्दक्षं मित्रो नवीयान्पपानो देवेभ्यो वस्यो अचैत् । ससवान्स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत्सखिभ्यः
ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् । दधानो नाम महो वचोभिर्वपुर्दृशये वेन्यो व्यावः
द्युमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः । वर्षीयो वयः कृणुहि शचीभिर्धनस्य सातावस्माँ अविड्ढि
इन्द्र तुभ्यमिन्मघवन्नभूम वयं दात्रे हरिवो मा वि वेनः । नकिरापिर्ददृशे मर्त्यत्रा किमङ्ग रध्रचोदनं त्वाहुः
मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम । पूर्वीष्ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन्प्र वृहापृणतः
उदभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या । त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः
अध्वर्यो वीर प्र महे सुतानामिन्द्राय भर स ह्यस्य राजा । यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम्