अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय । स्यूमगृभे दुधयेऽर्वते च क्रतुं वृञ्जन्त्यपि वृत्रहत्ये
तं सध्रीचीरूतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम् । समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति
स रायस्खामुप सृजा गृणानः पुरुश्चन्द्रस्य त्वमिन्द्र वस्वः । पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा
स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न भूमाभि रायो अर्यः । असो यथा नः शवसा चकानो युगेयुगे वयसा चेकितानः
अर्वाग्रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु । कीरिश्चिद्धि त्वा हवते स्वर्वानृधीमहि सधमादस्ते अद्य
प्रो द्रोणे हरयः कर्माग्मन्पुनानास ऋज्यन्तो अभूवन् । इन्द्रो नो अस्य पूर्व्यः पपीयाद्द्युक्षो मदस्य सोम्यस्य राजा
आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः । अभि श्रव ऋज्यन्तो वहेयुर्नू चिन्नु वायोरमृतं वि दस्येत्
वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः । यया वज्रिवः परियास्यंहो मघा च धृष्णो दयसे वि सूरीन्
इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर्वर्धतां वृद्धमहाः । इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः
अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिन्द्रहूतिम् । पन्यसीं धीतिं दैव्यस्य यामञ्जनस्य रातिं वनते सुदानुः
दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः । एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिन्द्रमियमृच्यमाना
तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः । ब्रह्मा च गिरो दधिरे समस्मिन्महाँश्च स्तोमो अधि वर्धदिन्द्रे
वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म । वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम्
एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय । महामुग्रमवसे विप्र नूनमा विवासेम वृत्रतूर्येषु
मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः । अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः
अयमुशानः पर्यद्रिमुस्रा ऋतधीतिभिरृतयुग्युजानः । रुजदरुग्णं वि वलस्य सानुं पणीँर्वचोभिरभि योधदिन्द्रः
अयं द्योतयदद्युतो व्यक्तून्दोषा वस्तोः शरद इन्दुरिन्द्र । इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार
अयं रोचयदरुचो रुचानोऽयं वासयद्व्यृतेन पूर्वीः । अयमीयत ऋतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः
नू गृणानो गृणते प्रत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः । अप ओषधीरविषा वनानि गा अर्वतो नॄनृचसे रिरीहि
इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया । उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः
अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् । तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै
समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः । त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः
आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम् । उप ब्रह्माणि शृणव इमा नोऽथा ते यज्ञस्तन्वे वयो धात्
यदिन्द्र दिवि पार्ये यदृधग्यद्वा स्वे सदने यत्र वासि । अतो नो यज्ञमवसे नियुत्वान्सजोषाः पाहि गिर्वणो मरुद्भिः
अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः । गावो न वज्रिन्स्वमोको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम्
या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिम् । तया पाहि प्र ते अध्वर्युरस्थात्सं ते वज्रो वर्ततामिन्द्र गव्युः
एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः । एतं पिब हरिव स्थातरुग्र यस्येशिषे प्रदिवि यस्ते अन्नम्
सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय । एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व
ह्वयामसि त्वेन्द्र याह्यर्वाङरं ते सोमस्तन्वे भवाति । शतक्रतो मादयस्वा सुतेषु प्रास्माँ अव पृतनासु प्र विक्षु
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरंगमाय जग्मयेऽपश्चाद्दघ्वने नरे