या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति । ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र
आभि स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र । आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः
इन्द्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे । त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः
शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते । तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते
नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध । इन्द्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि
स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते । वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते
अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता । अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये । अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये
एवा न स्पृधः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः । विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम्
श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः । सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः
त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ । त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन्
त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् । त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन्
त्वं रथं प्र भरो योधमृष्वमावो युध्यन्तं वृषभं दशद्युम् । त्वं तुग्रं वेतसवे सचाहन्त्वं तुजिं गृणन्तमिन्द्र तूतोः
त्वं तदुक्थमिन्द्र बर्हणा कः प्र यच्छता सहस्रा शूर दर्षि । अव गिरेर्दासं शम्बरं हन्प्रावो दिवोदासं चित्राभिरूती
त्वं श्रद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्र सिष्वप् । त्वं रजिं पिठीनसे दशस्यन्षष्टिं सहस्रा शच्या सचाहन्
अहं चन तत्सूरिभिरानश्यां तव ज्याय इन्द्र सुम्नमोजः । त्वया यत्स्तवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ
वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः । प्रातर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम्
किमस्य मदे किम्वस्य पीताविन्द्रः किमस्य सख्ये चकार । रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किमु नूतनासः
सदस्य मदे सद्वस्य पीताविन्द्रः सदस्य सख्ये चकार । रणा वा ये निषदि सत्ते अस्य पुरा विविद्रे सदु नूतनासः
नहि नु ते महिमनः समस्य न मघवन्मघवत्त्वस्य विद्म । न राधसोराधसो नूतनस्येन्द्र नकिर्ददृश इन्द्रियं ते
एतत्त्यत्त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः । वज्रस्य यत्ते निहतस्य शुष्मात्स्वनाच्चिदिन्द्र परमो ददार
वधीदिन्द्रो वरशिखस्य शेषोऽभ्यावर्तिने चायमानाय शिक्षन् । वृचीवतो यद्धरियूपीयायां हन्पूर्वे अर्धे भियसापरो दर्त्
त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत श्रवस्या । वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्यायन्
यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा । स सृञ्जयाय तुर्वशं परादाद्वृचीवतो दैववाताय शिक्षन्
द्वयाँ अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् । अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम्
आ गावो अग्मन्नुत भद्रमक्रन्सीदन्तु गोष्ठे रणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः
इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति । भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम्
न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति । देवाँश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह
न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि । उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः
गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम्