सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे । यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि
यद्वा दिवि पार्ये सुष्विमिन्द्र वृत्रहत्येऽवसि शूरसातौ । यद्वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून्
पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती । कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित्
गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः । कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः
अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः । सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत्
ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः । सुते सोमे सुतपाः शंतमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः
स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र । एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम्
स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु । प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः
तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम् । कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति
एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः । असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता
वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी । अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः
ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः । वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम्
अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः । वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः
शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः । वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन्
अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः । मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति
वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः । तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः
न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति । वृद्धस्य चिद्वर्धतामस्य तनू स्तोमेभिरुक्थैश्च शस्यमाना
न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् । अज्रा इन्द्रस्य गिरयश्चिदृष्वा गम्भीरे चिद्भवति गाधमस्मै
गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान् । स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम्
सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः । अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः
या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति । ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र
आभि स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र । आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः
इन्द्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे । त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः
शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते । तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते
नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध । इन्द्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि
स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते । वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते
अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता । अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये । अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये
एवा न स्पृधः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः । विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम्
श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः । सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः