नृवत्त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः । ईक्षे हि वस्व उभयस्य राजन्धा रत्नं महि स्थूरं बृहन्तम्
मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् । विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम
जनं वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि । अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्वप्सु
वयं त एभिः पुरुहूत सख्यैः शत्रोःशत्रोरुत्तर इत्स्याम । घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः
द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान् । तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम्
दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम् । अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः
तूर्वन्नोजीयान्तवसस्तवीयान्कृतब्रह्मेन्द्रो वृद्धमहाः । राजाभवन्मधुनः सोम्यस्य विश्वासां यत्पुरां दर्त्नुमावत्
शतैरपद्रन्पणय इन्द्रात्र दशोणये कवयेऽर्कसातौ । वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र
महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः । उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ
प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन् । प्रावन्नमीं साप्यं ससन्तं पृणग्राया समिषा सं स्वस्ति
वि पिप्रोरहिमायस्य दृळ्हाः पुरो वज्रिञ्छवसा न दर्दः । सुदामन्तद्रेक्णो अप्रमृष्यमृजिश्वने दात्रं दाशुषे दाः
स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः स्वभिष्टिसुम्नः । आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै
स ईं स्पृधो वनते अप्रतीतो बिभ्रद्वज्रं वृत्रहणं गभस्तौ । तिष्ठद्धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रमृष्वम्
सनेम तेऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः । सप्त यत्पुरः शर्म शारदीर्दर्द्धन्दासीः पुरुकुत्साय शिक्षन्
त्वं वृध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय । परा नववास्त्वमनुदेयं महे पित्रे ददाथ स्वं नपातम्
त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः । प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति
तव ह त्यदिन्द्र विश्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप् । दीदयदित्तुभ्यं सोमेभिः सुन्वन्दभीतिरिध्मभृतिः पक्थ्यर्कैः
इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते । धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या
तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धम् । यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम्
स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार । कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः
यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु । कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता
इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः । ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि
तं पृच्छन्तोऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः । अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात्त्वा महान्तम्
अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ । तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व
स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः । त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ
प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य । प्र पूषणं विष्णुमग्निं पुरंधिं सवितारमोषधीः पर्वताँश्च
इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः । श्रुधी हवमा हुवतो हुवानो न त्वावाँ अन्यो अमृत त्वदस्ति
नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः । ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय
स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः । ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम्
य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः । यः पत्यते वृषभो वृष्ण्यावान्सत्यः सत्वा पुरुमायः सहस्वान्