अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम् । निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन्
वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषाँ इन्द्र तुभ्यम् । पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै
आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम् । तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम्
एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम् । सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात्
स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः
तमु ष्टुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः । अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम्
स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी । बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा
त्वं ह नु त्यददमायो दस्यूँरेकः कृष्टीरवनोरार्याय । अस्ति स्विन्नु वीर्यं तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः
सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य । उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव
तन्नः प्रत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङ्गिरोभिः । हन्नच्युतच्युद्दस्मेषयन्तमृणोः पुरो वि दुरो अस्य विश्वाः
स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन्महति वृत्रतूर्ये । स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत्समत्सु
स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे । स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः
स यो न मुहे न मिथू जनो भूत्सुमन्तुनामा चुमुरिं धुनिं च । वृणक्पिप्रुं शम्बरं शुष्णमिन्द्रः पुरां च्यौत्नाय शयथाय नू चित्
उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथमिन्द्र तिष्ठ । धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः
अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा । गम्भीरय ऋष्वया यो रुरोजाध्वानयद्दुरिता दम्भयच्च
आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक् । याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः
प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः । नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः
प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै । पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ
अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम् । करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः
अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इन्द्र देवाः । कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः
महाँ इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत्
इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम् । अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि
पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि । यूथेव पश्वः पशुपा दमूना अस्माँ इन्द्राभ्या ववृत्स्वाजौ
तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम । यथा चित्पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः
धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः । सं जग्मिरे पथ्या रायो अस्मिन्त्समुद्रे न सिन्धवो यादमानाः
शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम् । विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै
यस्ते मदः पृतनाषाळमृध्र इन्द्र तं न आ भर शूशुवांसम् । येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः
आ नो भर वृषणं शुष्ममिन्द्र धनस्पृतं शूशुवांसं सुदक्षम् । येन वंसाम पृतनासु शत्रून्तवोतिभिरुत जामीँरजामीन्
आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् । आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे