उप च्छायामिव घृणेरगन्म शर्म ते वयम् । अग्ने हिरण्यसंदृशः
य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः । अग्ने पुरो रुरोजिथ
आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति । विशामग्निं स्वध्वरम्
प्र देवं देववीतये भरता वसुवित्तमम् । आ स्वे योनौ नि षीदतु
आ जातं जातवेदसि प्रियं शिशीतातिथिम् । स्योन आ गृहपतिम्
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्ति मन्यवे
अच्छा नो याह्या वहाभि प्रयांसि वीतये । आ देवान्सोमपीतये
उदग्ने भारत द्युमदजस्रेण दविद्युतत् । शोचा वि भाह्यजर
वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान् । होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत्
आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋषभासो वशा उत
अग्निं देवासो अग्रियमिन्धते वृत्रहन्तमम् । येना वसून्याभृता तृळ्हा रक्षांसि वाजिना
पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र । वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः
स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम् । यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्राँ अभि तृन्धि वाजान्
एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूँरभि गा इन्द्र तृन्धि
ते त्वा मदा बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् । महामनूनं तवसं विभूतिं मत्सरासो जर्हृषन्त प्रसाहम्
येभिः सूर्यमुषसं मन्दसानोऽवासयोऽप दृळ्हानि दर्द्रत् । महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस्परि स्वात्
तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः । और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान्
पप्राथ क्षां महि दंसो व्युर्वीमुप द्यामृष्वो बृहदिन्द्र स्तभायः । अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य
अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय । अदेवो यदभ्यौहिष्ट देवान्स्वर्षाता वृणत इन्द्रमत्र
अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः । अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान
अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम् । निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन्
वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषाँ इन्द्र तुभ्यम् । पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै
आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम् । तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम्
एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम् । सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात्
स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः
तमु ष्टुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः । अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम्
स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी । बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा
त्वं ह नु त्यददमायो दस्यूँरेकः कृष्टीरवनोरार्याय । अस्ति स्विन्नु वीर्यं तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः
सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य । उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव