इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः । यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः
जनिष्वा देववीतये सर्वताता स्वस्तये । आ देवान्वक्ष्यमृताँ ऋतावृधो यज्ञं देवेषु पिस्पृशः
वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम् । अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि
त्वमग्ने यज्ञानां होता विश्वेषां हितः । देवेभिर्मानुषे जने
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः । आ देवान्वक्षि यक्षि च
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा । अग्ने यज्ञेषु सुक्रतो
त्वामीळे अध द्विता भरतो वाजिभिः शुनम् । ईजे यज्ञेषु यज्ञियम्
त्वमिमा वार्या पुरु दिवोदासाय सुन्वते । भरद्वाजाय दाशुषे
त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् । शृण्वन्विप्रस्य सुष्टुतिम्
त्वामग्ने स्वाध्यो मर्तासो देववीतये । यज्ञेषु देवमीळते
तव प्र यक्षि संदृशमुत क्रतुं सुदानवः । विश्वे जुषन्त कामिनः
त्वं होता मनुर्हितो वह्निरासा विदुष्टरः । अग्ने यक्षि दिवो विशः
अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य
स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम्
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः
तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः । वृत्रहणं पुरंदरम्
तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनंजयं रणेरणे
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभिः
यत्र क्व च ते मनो दक्षं दधस उत्तरम् । तत्रा सदः कृणवसे
नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो । अथा दुवो वनवसे
आग्निरगामि भारतो वृत्रहा पुरुचेतनः । दिवोदासस्य सत्पतिः
स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना । वन्वन्नवातो अस्तृतः
स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता । बृहत्ततन्थ भानुना
प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया । अर्च गाय च वेधसे
स हि यो मानुषा युगा सीदद्धोता कविक्रतुः । दूतश्च हव्यवाहनः
ता राजाना शुचिव्रतादित्यान्मारुतं गणम् । वसो यक्षीह रोदसी
वस्वी ते अग्ने संदृष्टिरिषयते मर्त्याय । ऊर्जो नपादमृतस्य
क्रत्वा दा अस्तु श्रेष्ठोऽद्य त्वा वन्वन्सुरेक्णाः । मर्त आनाश सुवृक्तिम्
ते ते अग्ने त्वोता इषयन्तो विश्वमायुः । तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः