स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत । व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत्
व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः । वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम्
अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुरृग्मियम् । आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः
युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीम् । पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा
अस्माकमग्ने मघवत्सु धारयाऽनामि क्षत्रमजरं सुवीर्यम् । वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः
अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन् । रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः
अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः । वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि
नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः । कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा
स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति । य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन्
अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु । अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः
ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः । विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु
वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् । वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये
विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम् । वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः
पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम् । पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः
तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः । स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते
पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः । चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति
आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा । अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः
नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि । ये राधसा श्रवसा चात्यन्यान्सुवीर्येभिश्चाभि सन्ति जनान्
इमं यज्ञं चनो धा अग्न उशन्यं त आसानो जुहुते हविष्मान् । भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ
वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः
यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति । आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः
त्वं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु । पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वाम्
धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै । वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधुच्छन्दो भनति रेभ इष्टौ
अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची । आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः
वृञ्जे ह यन्नमसा बर्हिरग्नावयामि स्रुग्घृतवती सुवृक्तिः । अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः
दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः । रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः
मध्ये होता दुरोणे बर्हिषो राळग्निस्तोदस्य रोदसी यजध्यै । अयं स सूनुः सहस ऋतावा दूरात्सूर्यो न शोचिषा ततान
आ यस्मिन्त्वे स्वपाके यजत्र यक्षद्राजन्सर्वतातेव नु द्यौः । त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै
तेजिष्ठा यस्यारतिर्वनेराट् तोदो अध्वन्न वृधसानो अद्यौत् । अद्रोघो न द्रविता चेतति त्मन्नमर्त्योऽवर्त्र ओषधीषु
सास्माकेभिरेतरी न शूषैरग्नि ष्टवे दम आ जातवेदाः । द्र्वन्नो वन्वन्क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः