त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम् । अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि
यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात् । तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान्
यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत् । स मर्त्येष्वमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति
स तत्कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान् । यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म
अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम् । अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते
प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः । वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति
स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन्
वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति । तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः
ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः । अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः
अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना । शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि
आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततन्थ । स बाधस्वाप भया सहोभि स्पृधो वनुष्यन्वनुषो नि जूर्व
स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् । चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः
नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त । वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः
त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः । वैश्वानर त्वमस्मासु धेहि वसूनि राजन्स्पृहयाय्याणि
त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते । तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः
वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष । यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम्
वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना । तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः
वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः । परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता
पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः । वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये
स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत । व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत्
व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः । वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम्
अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुरृग्मियम् । आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः
युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीम् । पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा
अस्माकमग्ने मघवत्सु धारयाऽनामि क्षत्रमजरं सुवीर्यम् । वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः
अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन् । रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः
अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः । वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि
नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः । कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा
स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति । य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन्
अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु । अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः