य इमे उभे अहनी पुर एत्यप्रयुच्छन् । स्वाधीर्देवः सविता
य इमा विश्वा जातान्याश्रावयति श्लोकेन । प्र च सुवाति सविता
अच्छा वद तवसं गीर्भिराभि स्तुहि पर्जन्यं नमसा विवास । कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम्
वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् । उतानागा ईषते वृष्ण्यावतो यत्पर्जन्य स्तनयन्हन्ति दुष्कृतः
रथीव कशयाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्याँ अह । दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्यं नभः
प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति
यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति । यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ
दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः । अर्वाङेतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः
अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन । दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः
महान्तं कोशमुदचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः
यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः । प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि
अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ । अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम्
बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि । प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि
स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः । प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि
दृळ्हा चिद्या वनस्पतीन्क्ष्मया दर्धर्ष्योजसा । यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः
प्र सम्राजे बृहदर्चा गभीरं ब्रह्म प्रियं वरुणाय श्रुताय । वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय
वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पय उस्रियासु । हृत्सु क्रतुं वरुणो अप्स्वग्निं दिवि सूर्यमदधात्सोममद्रौ
नीचीनबारं वरुणः कवन्धं प्र ससर्ज रोदसी अन्तरिक्षम् । तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम
उनत्ति भूमिं पृथिवीमुत द्यां यदा दुग्धं वरुणो वष्ट्यादित् । समभ्रेण वसत पर्वतासस्तविषीयन्तः श्रथयन्त वीराः
इमामू ष्वासुरस्य श्रुतस्य महीं मायां वरुणस्य प्र वोचम् । मानेनेव तस्थिवाँ अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण
इमामू नु कवितमस्य मायां महीं देवस्य नकिरा दधर्ष । एकं यदुद्ना न पृणन्त्येनीरासिञ्चन्तीरवनयः समुद्रम्
अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा । वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत्
कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म । सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः
इन्द्राग्नी यमवथ उभा वाजेषु मर्त्यम् । दृळ्हा चित्स प्र भेदति द्युम्ना वाणीरिव त्रितः
या पृतनासु दुष्टरा या वाजेषु श्रवाय्या । या पञ्च चर्षणीरभीन्द्राग्नी ता हवामहे
तयोरिदमवच्छवस्तिग्मा दिद्युन्मघोनोः । प्रति द्रुणा गभस्त्योर्गवां वृत्रघ्न एषते
ता वामेषे रथानामिन्द्राग्नी हवामहे । पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा
ता वृधन्तावनु द्यून्मर्ताय देवावदभा । अर्हन्ता चित्पुरो दधेऽंशेव देवावर्वते
एवेन्द्राग्निभ्यामहावि हव्यं शूष्यं घृतं न पूतमद्रिभिः । ता सूरिषु श्रवो बृहद्रयिं गृणत्सु दिधृतमिषं गृणत्सु दिधृतम्
प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे