यथा वातो यथा वनं यथा समुद्र एजति । एवा त्वं दशमास्य सहावेहि जरायुणा
दश मासाञ्छशयानः कुमारो अधि मातरि । निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि
महे नो अद्य बोधयोषो राये दिवित्मती । यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः । सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः । यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः । मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते
यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये । परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते
ऐषु धा वीरवद्यश उषो मघोनि सूरिषु । ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते
तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह । ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते
उत नो गोमतीरिष आ वहा दुहितर्दिवः । साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिरर्चिभिः सुजाते अश्वसूनृते
व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः । नेत्त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते
एतावद्वेदुषस्त्वं भूयो वा दातुमर्हसि । या स्तोतृभ्यो विभावर्युच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते
द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम् । देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते
एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे । बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम्
एषा गोभिररुणेभिर्युजानास्रेधन्ती रयिमप्रायु चक्रे । पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति
एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात् । ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति
एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् । अप द्वेषो बाधमाना तमांस्युषा दिवो दुहिता ज्योतिषागात्
एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः । व्यूर्ण्वती दाशुषे वार्याणि पुनर्ज्योतिर्युवतिः पूर्वथाकः
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे । वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति
यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा । यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना
उत यासि सवितस्त्रीणि रोचनोत सूर्यस्य रश्मिभिः समुच्यसि । उत रात्रीमुभयतः परीयस उत मित्रो भवसि देव धर्मभिः
उतेशिषे प्रसवस्य त्वमेक इदुत पूषा भवसि देव यामभिः । उतेदं विश्वं भुवनं वि राजसि श्यावाश्वस्ते सवित स्तोममानशे
तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि
अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् । न मिनन्ति स्वराज्यम्
स हि रत्नानि दाशुषे सुवाति सविता भगः । तं भागं चित्रमीमहे
अद्या नो देव सवितः प्रजावत्सावीः सौभगम् । परा दुष्वप्न्यं सुव
विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आ सुव
अनागसो अदितये देवस्य सवितुः सवे । विश्वा वामानि धीमहि
आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे । सत्यसवं सवितारम्