पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानु रेजत स्वने वः । यत्क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे
वरा इवेद्रैवतासो हिरण्यैरभि स्वधाभिस्तन्वः पिपिश्रे । श्रिये श्रेयांसस्तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु
अज्येष्ठासो अकनिष्ठास एते सं भ्रातरो वावृधुः सौभगाय । युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः
यदुत्तमे मरुतो मध्यमे वा यद्वावमे सुभगासो दिवि ष्ठ । अतो नो रुद्रा उत वा न्वस्याग्ने वित्ताद्धविषो यद्यजाम
अग्निश्च यन्मरुतो विश्ववेदसो दिवो वहध्व उत्तरादधि ष्णुभिः । ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते
अग्ने मरुद्भिः शुभयद्भिरृक्वभिः सोमं पिब मन्दसानो गणश्रिभिः । पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः
के ष्ठा नरः श्रेष्ठतमा य एकएक आयय । परमस्याः परावतः
क्व वोऽश्वाः क्वाभीशवः कथं शेक कथा यय । पृष्ठे सदो नसोर्यमः
जघने चोद एषां वि सक्थानि नरो यमुः । पुत्रकृथे न जनयः
परा वीरास एतन मर्यासो भद्रजानयः । अग्नितपो यथासथ
सनत्साश्व्यं पशुमुत गव्यं शतावयम् । श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत्
उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी । अदेवत्रादराधसः
वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् । देवत्रा कृणुते मनः
उत घा नेमो अस्तुतः पुमाँ इति ब्रुवे पणिः । स वैरदेय इत्समः
उत मेऽरपद्युवतिर्ममन्दुषी प्रति श्यावाय वर्तनिम् । वि रोहिता पुरुमीळ्हाय येमतुर्विप्राय दीर्घयशसे
यो मे धेनूनां शतं वैददश्विर्यथा ददत् । तरन्त इव मंहना
य ईं वहन्त आशुभिः पिबन्तो मदिरं मधु । अत्र श्रवांसि दधिरे
येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्वा । दिवि रुक्म इवोपरि
युवा स मारुतो गणस्त्वेषरथो अनेद्यः । शुभंयावाप्रतिष्कुतः
को वेद नूनमेषां यत्रा मदन्ति धूतयः । ऋतजाता अरेपसः
यूयं मर्तं विपन्यवः प्रणेतार इत्था धिया । श्रोतारो यामहूतिषु
ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः । आ यज्ञियासो ववृत्तन
एतं मे स्तोममूर्म्ये दार्भ्याय परा वह । गिरो देवि रथीरिव
उत मे वोचतादिति सुतसोमे रथवीतौ । न कामो अप वेति मे
एष क्षेति रथवीतिर्मघवा गोमतीरनु । पर्वतेष्वपश्रितः
ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान् । दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम्
तत्सु वां मित्रावरुणा महित्वमीर्मा तस्थुषीरहभिर्दुदुह्रे । विश्वाः पिन्वथः स्वसरस्य धेना अनु वामेकः पविरा ववर्त
अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः । वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू
आ वामश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्वर्वाक् । घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति
अनु श्रुताममतिं वर्धदुर्वीं बर्हिरिव यजुषा रक्षमाणा । नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्वन्तः